TWAMAPI MAYA SAHA CHAL (& Jeevanpathe)
Availability: In stock
ISBN: 9789390315130
INR 300/-
त्वमपि मया सह चल’
जीवनमिदं सङ्घर्षशीलैर्मानवैर्न केवलं प्रतिक्षणं, प्रतिपदं, प्रतिपरिवर्तनं, प्रतिश्वासं चानुभूयते, अपितु गरलनिभकटुकानुभवा अस्मिन्नमृतवदास्वाद्यन्ते। जीवनेन मृत्युना च सह सङ्घर्षमाचरन् पुस्तकस्यास्य रचयिता निश्शङ्ककविः कश्चन विकलः पथिकः। स एष पथिकः मूकेतिहासाय, बन्ध्यायै व्यवस्थायै च न विद्रुह्यति, प्रत्युत हताशायाः घोरे तमसि आशायाः सुप्रभातं प्रत्यक्षीकरोति। अयं न केवलं सन्मानवमन्विष्यति, अपितु संसारस्य सर्वा पीडाः स्वस्मिन् समायोजयति, निरर्थकबन्धनानि मर्दयति, दुखप्रतिघातानपि सहते, परन्तु आत्मानमेकलं सदैव पश्यति।